Translate

रविवार, 13 दिसंबर 2015

श्रीमच्छङ्कराचार्यकृतमच्युताष्टकं

अच्युताष्टकम् - Achyutastakam

Narayan, Vishnu, Krishna, Balkrishna, Krishna with Flute, Achyutam Keshavam RamNarayanam Krishna damodaram vasudevam Harim
जय श्री कृष्ण
अच्युतं केशवं रामनारायणं  कृष्णदामोदरं वासुदेवं हरिम् ।
श्रीधरं माधवं गोपिकावल्लभं  जानकीनायकं रामचन्द्रं भजे ॥

अच्युतं केशवं सत्यभामाधवं  माधवं श्रीधरं राधिकाराधितम् ।
इन्दिरामन्दिरं चेतसा सुन्दरं  देवकी नन्दनं नन्दजं सन्दधे ॥

विष्णवे जिष्णवे शङ्खिने चक्रिणे  रुक्मणीरागिणे जानकी जानये ।
वल्लवीवल्वभायार्चितायात्मने  कंशविध्वंसिने वंशिने ते नमः ॥

कृष्ण गोविन्द हे राम नारायण  श्रीपते वासुदेवाजित  श्रीनिधे ।
अच्युतानन्त हे माधवाधोक्षज  द्वारकानायक द्रौपदीरक्षक ॥

राक्षसक्षोभितः सीतया शोभितो  दण्डकरण्यभूपुण्यताकारणः ।
लक्ष्मणेनान्वितो वानरैः सेवितो  ऽगस्त्यसम्पूजितो राघवः पातु माम् ॥

धेनुकारिष्टकानिष्टकृद्द्वेषिहा  केशिहा कंसह्रद्वंशिकावादकः ।
पूतनाकोपकः सूरजाखेलनो  बालगोपालकः पातु मां सर्वदा ॥

विद्युदुद्योतवत्प्रस्फुरद्वाससं  प्रावृडम्भोदवत्प्रोल्लसद्विग्रहम् ।
वन्यया मालया शोभितोरःस्थलं  लोहिताङ्घ्रिद्वयं वारिजाक्षं भजे ॥

कुञ्चितैः कुन्तलैर्भ्राजमानाननं  रत्नमौलिं लसत्कुण्डलं गण्डयोः ।
हारकेयूरकं कङ्कणप्रोज्ज्वलं  किङ्किणी मञ्जुलं श्यामलं तं भजे ॥

अच्युतस्याष्टकं यः पठेदिष्टदं  प्रेमतः प्रत्यहं पूरुषः सस्पृहम् ।
वृत्ततः सुन्दरं कर्तृविश्वम्भरस्तस्य वश्यो हरिर्जायते सत्वरम् ॥


श्रीमच्छङ्कराचार्यकृतमच्युताष्टकं शुभम् ।

कोई टिप्पणी नहीं: