Translate

सोमवार, 13 जनवरी 2014

भव के दस लकार -- परस्मैपदी


लकारपरिचय:

   धातुरूपाणि दशलकारेषु विभाजितानि सन्ति, अथवा धातो: सर्वेषु वचनेषु, सर्वेषु पुरुषेसु सर्वेषु कालेषु विभाजनम् आहत्‍य दशलकारेषु एव कृतमस्ति ।  एते लकारा: लादिवर्णात् प्रारभ्‍यन्‍ते अत: लकारा: इति उच्‍यन्‍ते ।  दशलकारा: सन्ति अधोक्‍ता: ।
  1. लट् लकार - वर्तमानकाले ।
  2. लिट् लकार - अनद्यतन-परोक्षभूतकाले ।
  3. लुट् लकार - अनद्यतनभविष्‍यतकाले ।
  4. लृट् लकार - अद्यतनभविष्‍यतकाले ।
  5. लेट् लकार - वेदप्रयोगे ।
  6. लोट् लकार - आज्ञाप्रयोगे ।
  7. लड्. लकार - अनद्यतनभूतकाले ।
  8. लिड्. लकार - विधिनिषेधादिप्रयोग, शुभकामनाशीर्वादवचने ।
  9. लुड्. लकार - अद्यतनभूतकाले ।
  10. लृड्. लकार - हेतुहेतुमद्भावप्रयोगे ।
 लट् वर्तमाने लेट् वेदे भूते लुड्. लड्. लिटस्‍तथा ।
विध्‍याशिषोर्लिड्. लोटौ च लुट् लृट् लृड्. च भविष्‍यति ।।
इति
प्रस्तोता - 

अत्र धातो: रूपाणि अकारादिक्रमे एव दास्‍यन्‍ते ।  किन्‍तु भ्‍वादिगणस्‍य प्रथमा धातु: अस्ति भू धातुरिति यस्‍या: नाम्‍ना एव अस्‍य गणस्‍य नाम भ्‍वादिगण: इति अस्ति ।  अतएव अस्‍या: धातो: रूपाणि पूर्वमेव प्रकाश्‍यते अत्र ।  अग्रे अकारादिक्रमे एव संचालयिष्‍यते ।

लट् लकार: वर्तमानकाल

एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुष:भवतिभवत:भवन्ति
मध्‍यमपुरुष:भवसिभवथ:भवथ
उत्‍तमपुरुष:भवामिभवाव:भवाम:

लृट् लकार: सन्निकट भविष्यकाल

एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुष:भविष्‍यतिभविष्‍यत:भविष्‍यन्ति
मध्‍यमपुरुष:भविष्‍यसिभविष्‍यथ:भविष्‍यथ
उत्‍तमपुरुष:भविष्‍यामिभविष्‍याव:भविष्‍याम:

लड्. लकार: भूतकाल

एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुष:अभवत्अभवताम्अभवन्
मध्‍यमपुरुष:अभव:अभवतम्अभवत
उत्‍तमपुरुष:अभवम्अभवावअभवाम

लोट् लकार: आज्ञार्थ

एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुष:भवतुभवताम्भवन्‍तु
मध्‍यमपुरुष:भवभवतम्भवत
उत्‍तमपुरुष:भवानिभवावभवाम

विधिलिड्. लकार: करना चाहिये के अर्थमें

एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुष:भवेत्भवेताम्भवेयु:
मध्‍यमपुरुष:भवे:भवेतम्भवेत
उत्‍तमपुरुष:भवेयम्भवेवभवेम

आशीर्लिड्. लकार: आशीर्वचनके अर्थमें

एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुष:भूयात्भूयास्‍ताम्भूयासु:
मध्‍यमपुरुष:भूया:भूयास्‍तम्भूयास्‍त
उत्‍तमपुरुष:भूयासम्भूयास्‍वभूयास्‍म

लिट् लकार: भूतकाल 

एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुष:बभूवबभूवतु:बभूवु:
मध्‍यमपुरुष:बभूविथबभूवथु:बभूव
उत्‍तमपुरुष:बभूवबभूवि‍वबभूविम

लुट् लकार: दूरस्थ भविष्य

एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुष:भविताभवितारौभवितार:
मध्‍यमपुरुष:भवितासिभवितास्‍थ:भवितास्‍थ
उत्‍तमपुरुष:भवितास्मिभवितास्‍व:भवितास्‍म:

लुड्. लकार: भूतकाल

एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुष:अभूत्अभूताम्अभूवन्
मध्‍यमपुरुष:अभू:अभूतम्अभूत
उत्‍तमपुरुष:अभूवम्अभूवअभूम

लृड्. लकार: भविष्यकाल (यदि, तदा)

एकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुष:अभविष्‍यत्अभविष्‍यताम्अभविष्‍यन्
मध्‍यमपुरुष:अभविष्‍य:अभविष्‍यतम्अभविष्‍यत
उत्‍तमपुरुष:अभविष्‍यम्अभविष्‍यावअभविष्‍याम

       इति

कोई टिप्पणी नहीं: