अच्युताष्टकम् - Achyutastakam
जय श्री कृष्ण |
श्रीधरं माधवं गोपिकावल्लभं जानकीनायकं रामचन्द्रं भजे ॥
अच्युतं केशवं सत्यभामाधवं माधवं श्रीधरं राधिकाराधितम् ।
इन्दिरामन्दिरं चेतसा सुन्दरं देवकी नन्दनं नन्दजं सन्दधे ॥
विष्णवे जिष्णवे शङ्खिने चक्रिणे रुक्मणीरागिणे जानकी जानये ।
वल्लवीवल्वभायार्चितायात्मने कंशविध्वंसिने वंशिने ते नमः ॥
कृष्ण गोविन्द हे राम नारायण श्रीपते वासुदेवाजित श्रीनिधे ।
अच्युतानन्त हे माधवाधोक्षज द्वारकानायक द्रौपदीरक्षक ॥
राक्षसक्षोभितः सीतया शोभितो दण्डकरण्यभूपुण्यताकारणः ।
लक्ष्मणेनान्वितो वानरैः सेवितो ऽगस्त्यसम्पूजितो राघवः पातु माम् ॥
धेनुकारिष्टकानिष्टकृद्द्वेषिहा केशिहा कंसह्रद्वंशिकावादकः ।
पूतनाकोपकः सूरजाखेलनो बालगोपालकः पातु मां सर्वदा ॥
विद्युदुद्योतवत्प्रस्फुरद्वाससं प्रावृडम्भोदवत्प्रोल्लसद्विग्रहम् ।
वन्यया मालया शोभितोरःस्थलं लोहिताङ्घ्रिद्वयं वारिजाक्षं भजे ॥
कुञ्चितैः कुन्तलैर्भ्राजमानाननं रत्नमौलिं लसत्कुण्डलं गण्डयोः ।
हारकेयूरकं कङ्कणप्रोज्ज्वलं किङ्किणी मञ्जुलं श्यामलं तं भजे ॥
अच्युतस्याष्टकं यः पठेदिष्टदं प्रेमतः प्रत्यहं पूरुषः सस्पृहम् ।
वृत्ततः सुन्दरं कर्तृविश्वम्भरस्तस्य वश्यो हरिर्जायते सत्वरम् ॥
श्रीमच्छङ्कराचार्यकृतमच्युताष्टकं शुभम् ।
कोई टिप्पणी नहीं:
एक टिप्पणी भेजें