Translate

मंगलवार, 28 जून 2016

जयदेवकृत दशावतारं

जयदेवकृत दशावतारं
प्रलय योधि जले धृतवानसि वेदं,
विहितहित्रचरित्रमखेदम्
केशव धृतमीनशरीर जय जगदीश हरे ।।१।।

क्षितिरतिविपुलतरे तव तिष्ठति पृष्ठे, धरणिधरणकिणचक्रगरिष्ठे
केशव धृतकच्छपरूप जय जगदीश हरे ।।२।।

वसति दशनशिखरे धरणि तव लग्ना, शशिनि कलंककलेव निमग्ना ।
केशव धृतशूकररूप जय जगदीश हरे ।।३।।

तव करकमलवरे नखमદ્ભુતश्रृंगं, दलितहिरण्यकशिपुतनुभृंगं । 
केशव धृतनरहरिरूप जय जगदीश हरे ।।४।। 

छलयसि विक्रमणे बलिमद्भुतवामन, पदनखनीरजनितनपावन
केशव धृतवामनरूप जय जगदीश हरे ।।५।।

क्षत्रियरूधिरये जगपगपापं, स्नपयसि पयसि शमितभवतापं
केशव धृतभृगुपतिरूप जय जगदीश हरे ।।६।।

वितरसि दिक्षु रणे दिक्पतिकमनीयं, दशमुखमौलीबलिं रमणीयं
केशव धृतरघुपतिरूप जय जगदीश हरे ।।७।।

वहसि वपुषि विषदे वसनं जलदाभं, हलहतिभीतिमिलितयमुनाभं
केशव धृतहलधररूप जय जगदीश हरे ।।८।।

निंदसि यज्ञविधेरहह श्रुतिजातं, सदयह्रदय दर्शितपशुघातं ।
केशव धृतबुद्धशरीर जय जगदीश हरे ।।९।।

म्लेच्छनिवहनिधने कलयसि करवालं, धूमकेतुमिव किमपि करालं ।
केशव धृतकल्किशरीर जय जगदीश हरे ।।१०।।

श्री जयदेवकवेरिदमुदितमुदारं, श्रृणु शुभदं सुखदं भवसारं ।
केशव धृतदशविधरूप जय जगदीश हरे ।।११।।

वेदानुद्धरते जगन्निवहते भूगोलमुद्बिभ्रते
दैत्यंदारयते बलिं छलयते क्षत्रक्षयं कुर्वते
पौलस्त्यं जयते हलं कलयते कारुण्यमातन्वते
म्लेच्छान्मूर्च्छयते दशाकृतिकृते कृष्णाय तुभ्यं नमः ।
यहाँ पढें विस्तार-वर्णन 
और अर्थ 

------------------------------------------------------------------------------

आदि शंकराचार्य कृत द्वादशज्योतिर्लिंगस्तोत्रम्
लघु स्तोत्रम्
सौराष्ट्रे सोमनाधञ्च श्रीशैले मल्लिकार्जुनम् ।
उज्जयिन्यां महाकालम् ॐकारेत्वमामलेश्वरम् ॥
पर्ल्यां वैद्यनाधञ्च ढाकिन्यां भीम शङ्करम् ।
सेतुबन्धेतु रामेशं नागेशं दारुकावने ॥
वारणाश्यान्तु विश्वेशं त्रयम्बकं गौतमीतटे ।
हिमालयेतु केदारं घृष्णेशन्तु विशालके ॥

एतानि ज्योतिर्लिङ्गानि सायं प्रातः पठेन्नरः ।
सप्त जन्म कृतं पापं स्मरणेन विनश्यति ॥

सम्पूर्ण स्तोत्रम्
सौराष्ट्रदेशे विशदे‌உतिरम्ये ज्योतिर्मयं चन्द्रकलावतंसम् ।
भक्तप्रदानाय कृपावतीर्णं तं सोमनाथं शरणं प्रपद्ये ॥ 1 ॥

श्रीशैलशृङ्गे विविधप्रसङ्गे शेषाद्रिशृङ्गे‌உपि सदा वसन्तम् ।
तमर्जुनं मल्लिकपूर्वमेनं नमामि संसारसमुद्रसेतुम् ॥ 2 ॥

अवन्तिकायां विहितावतारं मुक्तिप्रदानाय च सज्जनानाम् ।
अकालमृत्योः परिरक्षणार्थं वन्दे महाकालमहासुरेशम् ॥ 3 ॥

कावेरिकानर्मदयोः पवित्रे समागमे सज्जनतारणाय ।
सदैव मान्धातृपुरे वसन्तम् ॐकारमीशं शिवमेकमीडे ॥ 4 ॥

पूर्वोत्तरे प्रज्वलिकानिधाने सदा वसं तं गिरिजासमेतम् ।
सुरासुराराधितपादपद्मं श्रीवैद्यनाथं तमहं नमामि ॥ 5 ॥

यं डाकिनिशाकिनिकासमाजे निषेव्यमाणं पिशिताशनैश्च ।
सदैव भीमादिपदप्रसिद्धं तं शङ्करं भक्तहितं नमामि ॥ 6 ॥

श्रीताम्रपर्णीजलराशियोगे निबध्य सेतुं विशिखैरसङ्ख्यैः ।
श्रीरामचन्द्रेण समर्पितं तं रामेश्वराख्यं नियतं नमामि ॥ 7 ॥

याम्ये सदङ्गे नगरे‌உतिरम्ये विभूषिताङ्गं विविधैश्च भोगैः ।
सद्भक्तिमुक्तिप्रदमीशमेकं श्रीनागनाथं शरणं प्रपद्ये ॥ 8 ॥

सानन्दमानन्दवने वसन्तम् आनन्दकन्दं हतपापबृन्दम् ।
वाराणसीनाथमनाथनाथं श्रीविश्वनाथं शरणं प्रपद्ये ॥ 9 ॥

सह्याद्रिशीर्षे विमले वसन्तं गोदावरितीरपवित्रदेशे ।
यद्दर्शनात् पातकं पाशु नाशं प्रयाति तं त्र्यम्बकमीशमीडे ॥ 10 ॥

महाद्रिपार्श्वे च तटे रमन्तं सम्पूज्यमानं सततं मुनीन्द्रैः ।
सुरासुरैर्यक्ष महोरगाढ्यैः केदारमीशं शिवमेकमीडे ॥ 11 ॥

इलापुरे रम्यविशालके‌உस्मिन् समुल्लसन्तं च जगद्वरेण्यम् ।
वन्दे महोदारतरस्वभावं घृष्णेश्वराख्यं शरणं प्रपद्ये ॥ 12 ॥

ज्योतिर्मयद्वादशलिङ्गकानां शिवात्मनां प्रोक्तमिदं क्रमेण ।
स्तोत्रं पठित्वा मनुजो‌உतिभक्त्या फलं तदालोक्य निजं भजेच्च ॥








सोमवार, 13 जून 2016

विशाल शर्मणि महोदयस्य कथायाः

विशाल शर्मणि महोदयस्य कथायाः --
-१-
साधनाकाले एकदा महावीरः निर्जनस्थानम् गत्वा तत्रैव ध्याने मग्न: अभवत्।
तत्र एको यक्ष: अपि आसीत्।
यक्ष: तं स्वस्थाने दृष्टवा क्रोधित: जात:।
स: बहूच्चै अगर्जत्। तस्य गर्जनं श्रुत्वा वनं कम्पितं जातं।
जन्तव: भयात् अत्र-तत्र पलायनं अकुर्वन् किन्तु महावीर: न विचलित: अभवत्।गजस्य रुपे यक्ष: महावीराय बहु कष्टं अददात्।
तस्य सर्वे प्रयत्ना: निष्फला: अभवन्।
अंते स: सर्पस्य रूपं धारयित्वा महावीरस्य शरीरं बहु बारं अभक्षयत् (दंशयत्)।
किन्तु महावीर: तु महावीर: एवासीत् यथावत् ध्याने मग्न:।
ध्यानान्तरे महावीर: तं व्याकुल: दृष्टवा तस्योर्परि बहु करुणां अकरोत्। महवीरस्य दृष्टिपात्रमात्रेण सः स्वस्थो जात:। एतादृश करुणां दृष्ट्वा स: महावीरस्य शरणे आगच्छत्।।

लीना मेहेंदळे (Leena Mehendale) 




to Vishal
बहुत सुंदर कथा
महवीरस्य दृष्टिपात्रमात्रेण सः स्वस्थो जात:। --- हावीरस्य दृष्टिपामात्रेण सः स्वस्थो जात:। 
एतादृशां करुणां दृष्ट्वा स: महावीरस्य शरणे आगच्छत्।।-- इसे किसी अधिकारी व्यक्तिसे जाँच लेे कि क्या महावीरस्य -- षष्ठी रूप होगा या महावीरे (सप्तमी) वैसे हिंदीमें महावीरकी शरणमें  लेकिन संस्कृतमें विभक्तियोंकी एकरूपता अधिक रखी जाती है इसलिये मुझे शंका है।
--------------------------------------------------------------------------
-२-